|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.59. अध्यायः 059
Mahabharata - Ashvamedhika Parva - Chapter Topics
उदङ्काय वरदानात्परं द्वारकामागच्छता कृष्णेन मध्ये रैवतकप्रवेशः॥ 1 ॥ रैवतकोत्सववर्णनम्॥ 2 ॥ ततः कृष्णेन स्वभवनमेत्य मातापितृभ्यामभिवादनम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
जनमेजय उवाच।
उदङ्कस्य वरं दत्त्वा गोविन्दो द्विजत्तम।
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः॥ 14-59-1(94132)
वैशम्पायन उवाच। 14-59-2x(7910)
उदङ्काय वरं दत्त्वा प्रायात्सात्यकिना सह।
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः॥ 14-59-2(94133)
सरांसि सरितश्चैव वनानि च गिरींस्तथा।
अतिक्रम्याससादाथ रम्यां द्वारवतीं पुरीम्॥ 14-59-3(94134)
वर्तमाने महाराज महे रैवतकस्य च।
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा॥ 14-59-4(94135)
अलङ्कृतस्तु स गिरिर्नानारूपैर्विचित्रितैः।
बभौ रत्नमयैः कोशैः संवृतः पुरुर्षर्षभ॥ 14-59-5(94136)
काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च।
वासोभिश्च महाशैलः कल्पवृक्षैस्तथैव च॥ 14-59-6(94137)
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः।
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह॥ 14-59-7(94138)
एताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः।
पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत्।
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव॥ 14-59-8(94139)
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत।
गायतां पर्वतेन्द्रस्य दिविस्पृगिव निःस्वनः॥ 14-59-9(94140)
प्रमत्तमत्तसम्मत्तक्ष्वेडितोद्धुष्टसंकुलः।
तथा किलकिलाशब्दैर्भूधरोऽभून्मनोहरः॥ 14-59-10(94141)
विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान्।
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान्॥ 14-59-11(94142)
सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह।
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम्।
बभौ परमकल्याणो महस्तस्य महागिरेः॥ 14-59-12(94143)
पुण्यावसथवान्वीरैः पुण्यकृद्भिर्निषेवितः।
विहारो वृष्णिवीराणां महे रैवतस्य ह॥ 14-59-13(94144)
स नानावेश्मसंकीर्णो देवलोक इवाबभौ।
तदा च कृष्णसान्निध्यान्मुदा देवगणैर्युतः॥ 14-59-14(94145)
`स्तुवन्त्यन्तर्हिता देवा गन्धर्वाश्च सहर्षिभिः।
साधकः सर्वधर्माणामसुराणां विनाशकः॥ 14-59-15(94146)
त्वं स्रष्टा सृज्यमाधारं कारणं धर्मवेदवित्।
त्वया सत्क्रियते देव ज जानीमोऽत्र मायया॥ 14-59-16(94147)
केवलं त्वाऽभिजानीमः शरणं परमेश्वरम्।
ब्रह्मादीनां च गोविन्द सान्निध्वं शरणं नमः॥ 14-59-17(94148)
इति स्तुते मानुषैश्च पूजिते देवकीसुते।'
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट्॥ 14-59-18(94149)
ततः सम्पूज्यमानः स विवेश भवनं शुभम्।
गोविन्दः सात्यकिश्चैव जग्मतुर्भवनं स्वकम्॥ 14-59-19(94150)
विवेश च प्रहृष्टात्मा चिरकालप्रवासतः।
कृत्वा नसुकरं कर्म दानवेष्विव वासवः॥ 14-59-20(94151)
उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तथा।
अभ्यगच्चन्महात्मानं देवा इव शतक्रतुम्॥ 14-59-21(94152)
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा।
अभ्यवादयत प्रीतः पितरं मातरं तदा॥ 14-59-22(94153)
ताभ्यां स सम्परिष्वक्तः सान्त्वितश्च महाभुजः।
उपोपविष्टैः सर्वैस्तैर्वृष्णिभिः परिवारितः॥ 14-59-23(94154)
स विश्रान्तो महातेजाः कृतपादावनेजनः।
कथयामास तत्सर्वं पृष्टः पित्रा महाहवम्॥ ॥ 14-59-24(94155)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनषष्टितमोऽध्यायः॥ 59 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-59-4 महे उत्सवे॥ 7-59-7 दीपभूतो बभूवहेति क.थ.पाठः॥ 7-59-10 प्रमत्ताः क्रीडाद्यासत्तयानवहिताः। मत्ताः मद्यादिना। सम्मता हृष्टाः॥ 7-59-23 सात्यकिश्च महाभुज इति क.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|